|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.4. अध्यायः 004
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धुतराष्ट्रेण युधिष्ठिरंप्रति स्वस्य वनगमनाभ्यनुज्ञानप्रार्थना॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रानुशोचनपूर्वकं तत्प्रतिषेधने व्यासेन युधिष्ठिरचोदनाय तत्रागमनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिर उवाच।
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्॥ 16-4-1(97313)
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम्।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह॥ 16-4-2(97314)
अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा॥ 16-4-3(97315)
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान्॥ 16-4-4(97316)
पीडितं चापि जानामि राज्यमात्मानमेव च।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः॥ 16-4-5(97317)
भवान्पिता भवान्माता भवान्नः परमो गुरुः।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम्॥ 16-4-6(97318)
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम।
अस्तु राजा महाराज यमन्यं मन्यते भवान्॥ 16-4-7(97319)
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम्।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि॥ 16-4-8(97320)
नाहं राजा भवान्राजा भवता परवानहम्।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे॥ 16-4-9(97321)
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः॥ 16-4-10(97322)
वयं पुत्रा हि भवोत यथा दुर्योधनादयः।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम॥ 16-4-11(97323)
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे॥ 16-4-12(97324)
इयं हि वसुसंपूर्णा मही सागरमेखला।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्॥ 16-4-13(97325)
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः॥ 16-4-14(97326)
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं॥ 16-4-15(97327)
धृतराष्ट्र उवाच। 16-4-16x(8031)
तापस्ये मे मनस्तात वर्तते कुरुनन्दन।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो॥ 16-4-16(97328)
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप॥ 16-4-17(97329)
वैशम्पायन उवाच। 16-4-18x(8032)
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः॥ 16-4-18(97330)
संजयं च महात्मानं कृपं चापि महारथम्।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम्॥ 16-4-19(97331)
म्लायते मे मनो हीदं मुखं च परिशुष्यति।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह॥ 16-4-20(97332)
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्॥ 16-4-21(97333)
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा॥ 16-4-22(97334)
युधिष्ठिर उवाच। 16-4-23x(8033)
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम्।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत्॥ 16-4-23(97335)
आयसी प्रतिमा येन भीमसेनस्य सा पुरा।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम्॥ 16-4-24(97336)
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः॥ 16-4-25(97337)
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी॥ 16-4-26(97338)
वैशम्पायन उवाच। 16-4-27x(8034)
ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्॥ 16-4-27(97339)
तेन रत्नौषधिमता पुण्येन च सुगन्धिना।
पाणिस्पर्शेन राज्ञः स राजा संज्ञामवाप ह॥ 16-4-28(97340)
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम्।
`उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः॥' 16-4-29(97341)
जीवामीवातिसंस्पर्शात्तव राजीवलोचन।
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि॥ 16-4-30(97342)
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्॥ 16-4-31(97343)
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता।
ततो ग्लानमनास्तान नष्टसंज्ञ इवाभवम्॥ 16-4-32(97344)
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो।
लब्ध्वा संजीवितोस्मीति मन्ये कुरुकुलोद्वह॥ 16-4-33(97345)
वैशम्पायन उवाच। 16-4-34x(8035)
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा॥ 16-4-34(97346)
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्॥ 16-4-35(97347)
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम्॥ 16-4-36(97348)
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत्॥ 16-4-37(97349)
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्॥ 16-4-38(97350)
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ॥ 16-4-39(97351)
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि॥ 16-4-40(97352)
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्।
सर्वेषामवरोधानामार्तनादो महानभूत्॥ 16-4-41(97353)
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्॥
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्॥ 16-4-42(97354)
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत्॥ 16-4-43(97355)
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप॥ 16-4-44(97356)
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्॥ 16-4-45(97357)
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये॥ 16-4-46(97358)
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत्॥ ॥ 16-4-47(97359)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमिवासपर्वणि चतुर्थोऽध्यायः॥ 4 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|